|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.86. अध्यायः 086
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
दाशैश्च्यवनवृत्तान्तं निवेदितेन नहुषेण तंप्रति तदभीष्टकरणप्रतिज्ञानम्॥ 1 ॥ च्यवनेन नहुषंप्रति दाशेभ्यः स्वोचितमूल्यदानेनात्ममोचनचोदना॥ 2 ॥ नहुषेण संपूर्णराज्यस्य मूल्यतापरिकल्पनेपि मुनिता तदनङ्गीकरणे गवि जातेन मुनिना गोः प्रतिनिधीकरणम्॥ 3 ॥ च्यवनेन गोप्रतिग्रहणेन स्वसहवासिभिर्मत्स्यैः सह दाशानां स्वर्गप्रापणम्॥ 4 ॥

Mahabharata - Anushaasana Parva - Chapter Text
भीष्म उवाच।
नहुषस्तु ततः श्रुत्वा च्यवनं तं तथाऽऽगतम्।
त्वरितः प्रययौ तत्रि सहामात्यपुरोहितः॥ 13-86-1(84845)
शौचं कृत्वा यथान्यायं प्राञ्जलिः प्रयतो नृपः।
आत्मानमाचचक्षे च च्यवनाय महात्मने॥ 13-86-2(84846)
अर्चयामास तं चापि तस्य राज्ञः पुरोहितः।
सत्यव्रतं महात्मानं देवकल्पं विशाम्पते॥ 13-86-3(84847)
नहुष उवाच। 13-86-4x(7052)
करवाणि प्रियं किं ते तन्मे ब्रूहि द्विजोत्तम।
सर्वं कर्ताऽस्मि भगवन्यद्यपि स्यात्सुदुष्करम्॥ 13-86-4(84848)
च्यवन उवाच। 13-86-5x(7053)
श्रमेणि महता युक्ताः कैवर्ता मत्स्यजीविनः।
मम मूल्यं प्रयच्छैभ्यो मत्स्यानां विक्रयैः सह॥ 13-86-5(84849)
नहुष उवाच। 13-86-6x(7054)
सहस्रं दीयतां मूल्यं निषादेभ्यः पुरोहित।
निष्क्रयार्थे भगवतो यथाऽऽह भृगुनन्दनः॥ 13-86-6(84850)
च्यवन उवाच। 13-86-7x(7055)
आत्ममूल्यं च वक्तव्यं न तल्लोकः प्रशंसति।
तस्मादहं प्रवक्ष्यामि न चात्मस्तुतिम्मवृतः॥ 13-86-7(84851)
सहस्रं नाहमर्हामि किं वा त्वं मन्यसे नृप।
सदृशं दीयतां मूल्यं स्वबुद्ध्या निश्चयं कुरु॥ 13-86-8(84852)
नहुष उवाच। 13-86-9x(7056)
सहस्राणां शतं विप्र निषोदेभ्यः प्रदीयताम्।
स्यादिदं भगवन्मूल्यं किं वाऽन्यन्मन्यते भवान्॥ 13-86-9(84853)
च्यवन उवाच। 13-86-10x(7057)
नाहं शतसहस्रेण निमेयः पार्थिवर्षभ।
दीयतां सदृशं मूल्यममात्यैः सह चिन्तय॥ 13-86-10(84854)
नहुष उवाच। 13-86-11x(7058)
कोटिः प्रदीयतां मूल्यं निषादेभ्यः पुरोहित।
यदेतदपि नो मूल्यमतो भूयः प्रदीयताम्॥ 13-86-11(84855)
च्यवन उवाच। 13-86-12x(7059)
राजन्नार्हाम्यहं कोटिं भूयो वाऽपि महाद्युते।
सदृशं दीयतां मूल्यं ब्राह्मणैः सह चिन्तय॥ 13-86-12(84856)
नहुष उवाच। 13-86-13x(7060)
अर्दं राज्यं समग्रं वा निषादेभ्यः प्रदीयताम्।
एतत्तुल्यमहं मन्ये किं वाऽन्यन्मन्यसे द्विज॥ 13-86-13(84857)
च्यवन उवाच। 13-86-14x(7061)
अर्धं राज्यं समग्रं च मूल्यं नार्हामि पार्थिव।
सदृशं दीयतां मूल्यमृषिभिः सह चिन्त्यताम्॥ 13-86-14(84858)
भीष्म उवाच। 13-86-15x(7062)
महर्षेर्वचनं श्रुत्वा नहुषो दुःखकर्शितः।
स चिन्तयामास तदा सहामात्यपुरोहितः॥ 13-86-15(84859)
तत्र त्वन्यो वनचरः कश्चिन्मूलफलाशनः।
नहुषस्य समीपस्थो गविजातोऽभवन्मुनिः॥ 13-86-16(84860)
स तमाभाष्य राजानमब्रवीद्द्विजसत्तमः।
तोषयिष्याम्यहं क्षिप्तं यथा तुष्टो भविष्यति॥ 13-86-17(84861)
नाहं मिथ्यावचो ब्रूयां खैरेष्वपि कुतोऽन्यथा।
भवतो यदहं ब्रयां तत्कार्यमविशङ्कया॥ 13-86-18(84862)
नहुष उवाच। 13-86-19x(7063)
व्रवीतु भगवान्मूल्यं महर्षेः सदृशं भृगोः।
परित्रायस्व मामस्मद्विषयं च कुलं च मे॥ 13-86-19(84863)
हन्याद्धि भगवान्क्रुद्धस्त्रैलोक्यमपि केवलम्।
किं पुनर्मां तपोहीनं बाहुवीर्यपरायणम्। 13-86-20(84864)
अगाधाम्भसि मग्नस्य सामात्यस्य सऋत्विजः।
प्लवो भव महर्षे त्वं कुरु मूल्यविनिश्चयम्॥ 13-86-21(84865)
भीष्म उवाच। 13-86-22x(7064)
नहुषस्य वचः श्रुत्वा गविजातः प्रतापवान्।
उवाच हर्षयन्सर्वानमात्यान्पार्थिवं च तम्॥ 13-86-22(84866)
`ब्राह्मणानां गवां चैव कुलमेकं द्विधा कृतम्।
एकत्र मन्त्रास्तिष्ठन्ति हविरन्यत्र तिष्ठति॥' 13-86-23(84867)
अनर्घेया महाराज द्विजा वर्णेषु चोत्तमाः।
गावश्च पुरुषव्याग्र गौर्मूल्यं परिकल्प्यताम्॥ 13-86-24(84868)
नहुषस्तु ततः श्रुत्वा महर्षेर्वचनं नृप।
हर्षेण महता युक्तः सहामात्यपुरोहितः॥ 13-86-25(84869)
अभिगम्य भृगोः पुत्रं च्यवनं संशितव्रतम्।
इदं प्रोवाच नृपते वाचा सन्तर्पयन्निव॥ 13-86-26(84870)
उत्तिष्ठोत्तिष्ठ विप्रर्षे गवा क्रीतोसि भार्गव।
एतन्मूल्यमहं मन्ये तव धर्मभृतांवर॥ 13-86-27(84871)
च्यवन उवाच। 13-86-28x(7065)
उत्तिष्ठाम्येष राजेन्द्र सम्यक् क्रीतोस्मि तेऽनघ।
गोभिस्तुल्यं न पश्यामि धनं किञ्चिदिहाच्युत॥ 13-86-28(84872)
कीर्तनं श्रवणं दानं दर्शनं चापि पार्थिव।
गवां प्रशस्यते वीर सर्वपापहरं शिवम्॥ 13-86-29(84873)
गावो लक्ष्म्याः सदा मूलं गोषु पाप्मा न विद्यते।
अन्नमेव सदा गावो देवानां परमं हविः॥ 13-86-30(84874)
स्वाहाकारवषट्कारौ गोषु नित्यं प्रतिष्ठितौ।
गावो यज्ञस्य नेत्र्यो वै तथा यज्ञस्य ता मुखम्॥ 13-86-31(84875)
अमृतं ह्यव्ययं दिव्यं क्षरन्ति च वहन्ति च।
अमृतायतनं चैताः सर्वलोकनमस्कृताः॥ 13-86-32(84876)
तेजसा वपुषा चैव गावो वह्निसमा भुवि।
गावो हि सुमहत्तेजः प्राणिनां च सुखप्रदाः॥ 13-86-33(84877)
निविष्टं गोकुलं यत्र श्वासं मुञ्चति निर्भयम्।
विराजयति तं देशं पापं चास्यापकर्षति॥ 13-86-34(84878)
गावः स्वर्गस्य सोपानं गावः स्वर्गेऽपि पूजिताः।
गावः कामदुहोदेव्यो नान्यत्किञ्चित्परं स्मृतम्॥ 13-86-35(84879)
इत्येतद्गोषु मे प्रोक्तं महात्म्यं भरतर्षभ।
गुणैकदेशवचनं शक्यं पारायणं न तु॥ 13-86-36(84880)
निषादा ऊचुः। 13-86-37x(7066)
दर्शनं कथनं चैव सहास्माभिः कृतं मुने।
सतां साप्तपदं मैत्रं प्रसादं न कुरु प्रभो॥ 13-86-37(84881)
हवींषि सर्वाणि यथा ह्युपभुङ्क्ते हुताशनः।
एवं त्वमपि धर्मात्मन्पुरुषाग्निः प्रतापवान्॥ 13-86-38(84882)
प्रसादयामहे विद्वन्भवन्तं प्रणता वयम्।
अनुग्रहार्थमस्माकमियं गौः प्रतिगृह्यताम्॥ 13-86-39(84883)
`अत्यन्तापदि शक्तानां परित्राणं हि कुर्वताम्।
या गतिर्विदिता त्वद्य नरके शरणं भवान्॥ 13-86-40(84884)
च्यवन उवाच। 13-86-40x(7067)
कृपणस्य च यच्चक्षुर्मुनेराशीविषस्य च।
नरं समूलं दहति कक्षमग्निरिव ज्वलन्॥ 13-86-41(84885)
प्रतिगृह्णामि वो धेनुं कैवर्ता मुक्तकिल्बिषाः।
दिवं गच्छत वै क्षिप्रं मत्स्यैर्जालोद्धृतैः सह॥ 13-86-42(84886)
भीष्म उवाच। 13-86-43x(7068)
ततस्तस्य प्रभावात्ते महर्षेर्भावितात्मनः।
निषादास्तेन वाक्येन सह मत्स्यैर्दिवं ययुः॥ 13-86-43(84887)
ततः स राजा नहुषो विस्मितः प्रेक्ष्य धीवरान्।
आरोहमाणांस्त्रिदिवं मत्स्यांश्च भरतर्षभ॥ 13-86-44(84888)
ततस्तौ गविजश्चैव च्यवनश्च भृगूद्वहः।
वराभ्यामनुरूपाभ्यां छन्दयामासतुर्नृपम्॥ 13-86-45(84889)
ततो राजा महावीर्यो नहुषः पृथिवीपतिः।
परमित्यब्रवीत्प्रीतस्तदा भरतसत्तम॥ 13-86-46(84890)
ततो जग्राह धर्मे स स्थितिमिन्द्रनिभो नृपः।
तथेति चोदितः प्रीतस्तावृषी प्रत्यपूजयत्॥ 13-86-47(84891)
समाप्तदीक्षश्च्यवनस्ततोऽगच्छत्स्वमाश्रमम्।
गविजश्च महातेजाः स्वमाश्रमपदं ययौ॥ 13-86-48(84892)
निषादाश्च दिवं जग्मुस्ते च मत्स्या जनाधिप।
नहुषोपि वरं लब्ध्वा प्रविवेश स्वकं पुरम्॥ 13-86-49(84893)
एतत्ते कथितं तात यन्मां त्वं परिपृच्छसि।
दर्शने यादृशः स्नेहः संवासे वा युधिष्ठिर॥ 13-86-50(84894)
महाभाग्यं गवां चैव तता धर्मविनिश्चयम्।
किं भूयः कथ्यतां वीर किं ते हृदि विवक्षितम्॥ ॥ 13-86-51(84895)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि षडशीतितमोऽध्यायः॥ 86 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|